भूली बीसरी…..

 

WIN_20140522_085438

એચ.કે.આર્ટ્સ કોલેજ.'સાબરમતી' પાના નં ૧૦૩-૧૦૪

એચ.કે.આર્ટ્સ કોલેજ.’સાબરમતી’
પાના નં ૧૦૩-૧૦૪

 

 

 

 

 

 

એક ખુબ જૂની,૪૬ વર્ષ જૂની, યાદની આ વાત...


૧૯૬૭-૬૮ના વર્ષ દરમ્યાન સેંટ ઝેવિયર્સ કોલેજમાં મહાકવિ ભાસરચિત ‘સ્વપ્નવાસવદત્તા’ નામના નાટક અંગે ‘ફાધરગોમ્સ વકતૃત્વ સ્પર્ધા ‘ યોજવામાં આવી હતી. વિષય હતો. “કોનો ત્યાગ વધારે? વાસવદત્તાનો  કે પદ્માવતીનો?” તે વખતના સંસ્કૃત વિભાગના વડા ઈન્દુકલાબેન ઝવેરી અને પ્રાધ્યાપક શ્રી પી.સી.દવે સાહેબે સંસ્કૃતમાં વક્તવ્ય લખવા કહ્યું. સંસ્કૃતમાં લખવાનું કામ તો ખુબ અઘરું. પણ ના તો કેમ પડાય ? હિંમત કરી. મહામહેનતે લખ્યું. બંનેએ વાંચ્યું. ઘણી ભૂલો કાઢી,સુધરાવ્યું અને છેલ્લે પોતે મઠાર્યું. લગભગ પોતે જ લખીને આપ્યું. એ વક્તવ્ય પછી તો હ.કા.આર્ટ્સ કોલેજના ‘સાબરમતી’ મેગેઝીનમાં છપાયું જે અત્યારે મને મારા જૂના સંગ્રહમાંથી હાથ લાગ્યું. તેને સ્કેન કરીને તો મૂક્યું જ છે. પણ વિશાલ મોણપરાના ઉપલબ્ધ દેવનાગરી લિપિમાં ટાઈપ પણ કર્યું છે. દોસ્તો, કેટલાંક  શબ્દો સાચા સંસ્કૃત ફોન્ટ ન હોવાના કારણે થોડા જુદા દેખાશે તો ક્ષમ્ય ગણશો.

 

‘સાબરમતી’- ૧૯૬૮ -પાના નં ૧૦૩-૧૦૪-એચ.કે. આર્ટસ કોલેજ.


‘स्वप्नवासवदत्त’ नाटके पद्मावत्यास्त्यागो वासवदत्तायास्त्यागाद्‍ बलीयान्
‘સ્વપ્નવાસવદત્તા’ નાટકમાં પદ્માવતીનો ત્યાગ વાસવદત્તાના ત્યાગ કરતાં વધારે બળવાન છે.

( रेव. फाधरगोम्ससंस्कृतवक्तृत्वप्रतियोगितायां प्रथमं पारितोषिकं लब्धवत्यास्माकं विदयार्थिन्या देविकाभिधानया व्याख्यानं यद्दतं तदिह समुधृत्तम्। )

( રેવ.ફાધર ગોમ્સ વક્તૃત્વ હરિફાઈમાં પ્રથમ પારિતોષિક મેળવેલ અમારી વિદ્યાર્થિની દેવિકાનું વક્તવ્ય અત્રે એ જ રીતે અવતરણ કરેલ છે. )

सम्मान्याः निर्णायक महोदयाः, सभापतिमहाभागाः, उपस्थिताः अन्ये संस्कृतरसिकाः श्रोतारश्च ।

   अद्य अस्मिन प्रस्तुते विषये विषयस्य पक्षं स्वीकृत्य अहं ब्रवीमि । स्वप्नवासवदत्त नाम्नि नाटके पद्मावत्याः त्यागाः अधिकतरः सूक्ष्मतरश्च त्यागभावना च बलीयसी वासवदत्तायाः इति सुस्पष्टं विवादातीतं च वर्तंते । किन्तु अत्र समुपस्थिताः केचित् वासवदत्तात्यागप्रशंसापराः वर्तन्ते। अतः अहं भवतां समीपमुपस्थिता ।

   पश्यन्तु भवन्तः । वासवदत्तया किं त्यक्तम् । केवलं राज्ञः स्थूलं सान्निध्यमेव त्यक्तम। तदपि भाविसुखोपलम्भायैव कृतमिति सा प्रथमतः स्पष्टतया जानाति । किन्तु राज्ञः वा आत्मनः वा अपि यत्कार्यं सा यौगन्धरायणोपदेशात् अंङीकरोति तदपि सा भृशं दुःखेन करोति । या सुखानुगामिनं त्यागमपि कर्तुमेतादृशं दुःखमनुभवति तस्याम का अपि त्यागभावना विद्यते इति कथनेन बालिशता एव प्रकटीक्रियते कैश्चित् । सा प्रसंगे प्रसंगे उदयनं संस्मृत्य भृशं रोदिति कीदॄक्  दुःखं वा अनुभवति इति न महता स्वरेण उद्‍घोषितव्यम् ।  अनेन तु ‘बालानां रोदनं बलमिति’ वाक्यस्य याथार्थमेव गम्यते ।

उदयनः तस्या एव आसीत् एति सा स्वयं जानाति। चतुर्थांकां‌त् प्रभृति सा उदयनस्य प्रेम आत्मनः कृते अनुभवति, “वासवदत्ताबध्धं न तु तावन्मे मनो हरति” इति वाक्यं श्रुत्वा धन्यतामनुभवति कथयति च ‘अहो, अज्ञातवासः अपि अत्र बहुगुणः संपद्यते ‘ इति। इत्थं तस्याः कृते उदयनस्य विरहः न दुःखपूर्णः किन्तु सुखपूर्णः संज्जातः। यः अज्ञातवासः तया बहुगुण इति मन्यते तस्य कृते दीर्घं संभाषणं कृत्वा महती स्तुतिः किं रचयितव्या। तस्या एतादॄक प्रेम केवलं स्थूलतापरं विद्यते। सा उदयनस्य रुपमेव भजते। येन प्रेम्णा उदयनः आसक्तः अभवत, राज्यकार्यप्रमत्तः भूत्वा आलस्यमभजत्, परिणामे च राज्यभ्रष्टतामगच्छत् तत्  किं प्रेम कथ्यते? यदा वस्तुतः प्रेम अपि न कृतः तदा त्यागः कुतः कृतः कस्य वा ।

किन्तु अस्मिन एव नाटके वासवदत्तायाः समीपे एव भ्राजमाना निरहंकारा सदाक्षिण्या ॠजुह्रदया सत्यवाग् अन्या अपि नारी वर्तते या आत्मनः शीलप्राकट्येन जगत् प्रकाशयतितराम् सुतराम् । अनया यत्प्रेम कृतं तन्न उदयनस्य रुपं शरीरं वा दॄष्टवा। अनेन कीदॄक् सूक्ष्ममस्याः प्रेम इति दॄष्यते।

उदयनः सानुक्रोशः मृतां पत्नीं संस्मृत्य दुःखी भवति इति संजातानुकम्पया तया उदयनस्य शिरसि आत्मनः प्रेमपुष्पं वितीर्णम् । इत्थमस्याः परिणयसंकल्पः एव न आत्मनः कृते किन्तु उदयनं सुखीकर्तुमेव आसीत्। परिणयप्रभृत्येव तया आत्मसुखत्यागः कृतः। परिणयमनन्तरमपि सा उदयनं सुखयितुंयतते, अस्य शून्यं ह्रदयं पूरयितुं प्रयतते, उदयनाच्च्सम्मानं लब्धुमीहते, उदयनेन विना उत्कंठामनुभवति इति उदयनेन सह आत्मसाद्‍ भवितुं प्रयत्नवती। किन्तु उदयनः तस्याः कृते अतीव शीतलः केवलं वासवदत्तां स्मृत्वा एव एकान्ते रोदिति। एतादॄशं जानत्या अपि तया उदयनः न तिरस्कृतः किन्तु आत्मसुखत्यागेन अपि अधिकतरं सम्मानितः रक्षितश्च। स्त्रीणां कृते पतिप्रेम सदॄग बहुमूल्यं न किंचिदस्ति। तस्य प्रेम्णः त्यागमपि सा सानन्दं करोति इति कीदॄशी महती कथा।

तस्याः समग्र व्यक्तित्वमेव त्यागपरायणम् । सा आर्यपुत्रेण विना उत्कण्ठिता सती एकदा प्रमदवनदृश्ये आवन्तिकायाः कृते आर्यपुत्रदर्शनमपि परिहरति। अहो तस्या सत्यप्रियता ! कीदॄशी अस्याः कर्तव्यपरायणता, त्यागभावना च !
अस्मिन्नाटके यौगन्धनारायणेन केवलं राज्यप्राप्त्यर्थमेव पद्मावत्याः परिणयः कारितः । ‘ वासवदत्ता मृता ‘ इत्यालीकमुक्त्वा पद्मावती वंचिता । अंतिम दृश्ये पद्मावत्या एतत्सर्वं ज्ञायते तथापि न कमपि चीत्कारं करोति, न कृध्यति वा। तया तु वासवदत्तारूपेण अपि आवन्तिका पूर्वसदॄशमेव स्वीकृता सत्कृता च ।

सामान्यतया नाटके जीवने वा द्वयोः समानकक्षा स्थितयोः स्पर्धाजन्यः संघर्षः जायते महती व्यथा उत्पद्यते च । किन्त्वत्र द्वयोः नायिकयोः मध्ये वा नायकनायिकयोर्मध्ये वा स्नेहमृतमुद्भवति तत् सर्वं पद्मावत्याः शुभ्रान्तकरणात् च एव । चतुर्थे अंके आवन्तिकायाः प्रत्यक्षं सा ‘आर्या वासवदत्ता’ इति बहुमानसूचकं पदं प्रयुक्ते । अनेन आवन्तिकावेशधारिण्या अपि ह्रदयं विजितम्।

इत्थं ज्ञायते एव यत्पद्मावत्यास्त्याग एव सत्यतया त्यागः वासवदत्तायास्त्यागाद्‍ बलीयान् च इत्यलमतिविस्तरेण ।

7 thoughts on “भूली बीसरी…..

  1. Pingback: શબ્દોને પાલવડે » भूली बीसरी…..

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s